लोकेSस्मिन् कीर्ति प्राप्तवान्

राष्ट्रकवि जन्मजयन्ती दिवस (७ असोज २०८०)

प्रीति आत्रेय ज्ञवाली

सुशोभित: अयं लोके राष्ट्रकवि उपाधिना ।
शतोत्तरैक यावत् स: जीवित: स लिखन् किल ॥१॥

युवावस्थागते प्राप्ते भार्याशोकोSभवत्तदा ।
प्रणितम् शोककाव्यं यत् “गौरी” ख्याति: स प्राप्तवान् ॥२॥

महनीय: पुरस्कार: मदनेति सुनामक: ।
प्राप्य चर्चा अयं लोके प्रशस्तिरपि प्राप्तवान् ॥३॥

लिखितं बहुधा काव्यं अनेन धरणीतले ।
राष्ट्रभक्तियुतो गीत: काव्य-लेख: अनेकधा ॥४॥

प्रकृति-प्रेम सम्बन्धी लेखने अपि दक्षता ।
“ऋतम्भरा” महाकाव्य: पूर्णतां सैव ना गता ॥५॥

एकदा विस्मयो जात: प्रश्रिता सूचना यत: ।
जीवितं हि मृतं उक्त्वा पत्रिकायां समागत: ॥६॥

रचिता एक गीतिस्तु स्वप्ने स्वनिधनं अभूत् ।
वर्तमाने अपि सैव दृष्ट्वा विस्मयमागत: ॥७॥

अलिखत् गीतमेकम् स: इच्छया मरणं भवेत् ।
सर्वत्रैव च संजाले निधने तत् प्रसारितम् ॥८॥

मयाऽद्य लिखिता वार्ता अत्र तु एतदेव हि ।
माधव: नामधेयः स: लोकेSस्मिन् कीर्ति प्राप्तवान् ॥९॥


(नमस्कार ! नेपालनाम्चा तपाईंको मिडिया साथी हो । र, nepalnamcha@gmail.com मा परिचय, फोटोसहित मनका अनेक कुरा, सबै कुरा पठाउनुहोला ।)

Leave a Reply

Your email address will not be published.

सम्बन्धित समाचार

Back to top button