
श्रीपञ्चमीमा संस्कृत कविता
प्रीति आत्रेय ज्ञवाली
वाग्देवी वाक्शक्तिं ददतु
विद्याबुद्धिदायिनी
धवलवस्त्रधारिणी
हे शारदे ! कृपां करोतु ।
वीणावादिनी ज्ञाता
हस्ते पुस्तकधारिणी
ममोपरि कृपां करोतु ।
हंसवाहिनी माता
स्फटिकमाल्यधारिणी
प्रीत्या विद्यादानं करोतु ।
करोम्यहं पूजनम्
वचनं भवेत् मधुरम्
प्रीत्यै वाक्सिद्धि प्रददतु ।
चरणे अहं नौमि
शरणे अहं आगता
वाग्देवी वाक्शक्तिं ददतु ।
…
(नमस्कार ! नेपालनाम्चा तपाईंको मिडिया साथी हो । र, nepalnamcha@gmail.com मा परिचय, फोटोसहित मनका अनेक कुरा, सबै कुरा पठाउनुहोला ।)
